|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.228. अध्यायः 228
Mahabharata - Adi Parva - Chapter Topics
पाण्डवानां समीपे नारदागमनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-228-0x(1251)(9919)
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः॥ 1-228-1(9920)
सर्व एव महात्मानः सर्वे मम पितामहाः।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत॥ 1-228-2(9921)
कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः।
वर्तमाना महाभागा नाभिद्यन्त परस्परम्॥ 1-228-3(9922)
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम्।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह॥ 1-228-4(9923)
वैशम्पायन उवाच। 1-228-5x(1252)
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत्।
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः॥ 1-228-5(9924)
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह॥ 1-228-6(9925)
जितारयो महात्मानः सत्यधर्मपरायणाः।
एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः॥ 1-228-7(9926)
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च॥ 1-228-8(9927)
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु।
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः॥ 1-228-9(9928)
`पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च।
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः॥ 1-228-10(9929)
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम्।
भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम्॥ 1-228-11(9930)
अवेक्षमाणो द्युतिमानाजगाम महातपाः।
सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः॥ 1-228-12(9931)
परेण तपसा युक्तो ब्राह्मेण तपसा वृतः।
नये नीतौ च निस्तो विश्रुतश्च महामुनिः॥ 1-228-13(9932)
परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान्।
भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्दिवजः॥ 1-228-14(9933)
धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः।
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च॥ 1-228-15(9934)
सर्वथा कृतमर्यादो वेदेषु विविधेषु च।
शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित्॥ 1-228-16(9935)
ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः।
ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः॥ 1-228-17(9936)
श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा।
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे॥ 1-228-18(9937)
महेन्द्रदत्ते महती बिभ्रत्परमवाससी।
जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे॥ 1-228-19(9938)
अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे।
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम्॥ 1-228-20(9939)
प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम्।
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः॥ 1-228-21(9940)
संहितायां च सर्वेषां स्थितस्योपस्थितस्य च।
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः॥ 1-228-22(9941)
गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम्।
आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा॥ 1-228-23(9942)
यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः।
विदितार्थः समश्चैव च्छेत्ता निगमसंशयान्॥ 1-228-24(9943)
अर्थनिर्वचने नित्यं संशयच्छिदसंशयः।
प्रकृत्या धर्मकुशलो दाता धर्मविशारदः॥ 1-228-25(9944)
लोपेनागमधर्मेण संक्रमेण च वृत्तिषु।
एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान्॥ 1-228-26(9945)
पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता।
प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च॥ 1-228-27(9946)
सर्ववर्णविकारेषु नित्यं कुशलपूजितः।
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च॥ 1-228-28(9947)
समस्थानेषु सर्वेषु समाम्नायेषु धातुषु।
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन्॥ 1-228-29(9948)
अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन्।
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन्॥ 1-228-30(9949)
चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम्।
विभाषितं च समयं भाषितं हृदयंगमम्॥ 1-228-31(9950)
आत्मने च परस्मै च स्वरसंस्कारयोगवित्।
एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट्॥ 1-228-32(9951)
विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा।
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान्॥ 1-228-33(9952)
अभेदतश्च बहुशो बहुशश्चापि भेदतः।
वक्ता विविधवाक्यानां नानादेशसमीक्षिता॥ 1-228-34(9953)
पञ्चागमांश्च विविधानादेशांश्च समीक्षिता।
नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः॥ 1-228-35(9954)
परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः।
प्रत्ययं च समाख्याता नियतं प्रतिधातुकम्॥ 1-228-36(9955)
पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च।
तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च॥' 1-228-37(9956)
आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः।
`कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः॥' 1-228-38(9957)
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि।
प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत्।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा॥ 1-228-39(9958)
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः॥ 1-228-40(9959)
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता॥ 1-228-41(9960)
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी॥ 1-228-42(9961)
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः॥ 1-228-43(9962)
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्॥ 1-228-44(9963)
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः॥ 1-228-45(9964)
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां॥ 1-228-46(9965)
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ॥ 1-228-47(9966)
एकराज्यावेकगृहावेकशय्यासनाशनौ।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः॥ 1-228-48(9967)
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर॥ 1-228-49(9968)
युधिष्ठिर उवाच। 1-228-50x(1253)
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने।
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्॥ 1-228-50(9969)
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्॥ 1-228-51(9970)
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे॥ ॥ 1-228-52(9971)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः॥ 228 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|